विभूतिपाद
देशबन्धश्चित्तस्य धारणा ॥ ३.१॥
तत्र प्रत्ययैकतानता ध्यानम् ॥ ३.२॥
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥ ३.३॥
त्रयमेकत्र संयमः ॥ ३.४॥
तज्जयात्प्रज्ञालोकः ॥ ३.५॥
तस्य भूमिषु विनियोगः ॥ ३.६॥
त्रयमन्तरङ्गं पूर्वेभ्यः ॥ ३.७॥
तदपि बहिरङ्गं निर्बीजस्य ॥ ३.८॥
व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥ ३.९॥
तस्य प्रशान्तवाहिता संस्कारात् ॥ ३.१०॥
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ ३.११॥
ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥ ३.१२॥
एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥ ३.१३॥
शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ ३.१४॥
क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ ३.१५॥
परिणामत्रयसंयमाद् अतीतानागतज्ञानम् ॥ ३.१६॥
शब्दार्थप्रत्ययानामितरेतराध्यासात् सङ्करस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् ॥ ३.१७॥
संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥ ३.१८॥
प्रत्ययस्य परचित्तज्ञानम् ॥ ३.१९॥
न च तत्सालम्बनं तस्याविषयीभूतत्वात् ॥ ३.२०॥
कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासंप्रयोगेऽन्तर्धानम् ॥ ३.२१॥
सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥ ३.२२॥
मैत्र्यादिषु बलानि ॥ ३.२३॥
बलेषु हस्तिबलादीनि ॥ ३.२४॥
प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥ ३.२५॥
भुवनज्ञानं सूर्ये संयमात् ॥ ३.२६॥
चन्द्रे ताराव्यूहज्ञानम् ॥ ३.२७॥
ध्रुवे तद्गतिज्ञानम् ॥ ३.२८॥
नाभिचक्रे कायव्यूहज्ञानम् ॥ ३.२९॥
कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ ३.३०॥
कूर्मनाड्यां स्थैर्यम् ॥ ३.३१॥
मूर्धज्योतिषि सिद्धदर्शनम् ॥ ३.३२॥
प्रातिभाद्वा सर्वम् ॥ ३.३३॥
हृदये चित्तसंवित् ॥ ३.३४॥
सत