Samadhi Pada All Sutras - Yogaducation

Samadhi Pada All Sutras

Share with your friends

समाधि पाद योगसूत्र का पहला पाठ है इसमें कुल 51 सूत्र दिए गए हैं जो क्रमशः इस प्रकार हैं :

 

समाधि पाद (51)
1.1 – अथ योगानुशासनम् ॥
1.2 – योगश्चित्तवृत्तिनिरोधः ॥
1.3 – तदा द्रष्टु: स्वरुपेSवस्थानम् ॥
1.4 – वृत्तिसारूप्यम् इतरत्र ॥
1.5 – वृत्तयः पञ्चतय्यः क्लिष्टाSक्लिष्टा: ॥

1.6 – प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥
1.7 – प्रत्यक्षानुमानागमाः प्रमाणानि ॥
1.8 – विपर्ययो मिथ्याज्ञानम् अतद्रूपप्रतिष्ठम् ॥
1.9 – शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥
1.10 – अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥
1.11 – अनुभूतविषयासंप्रमोष: स्मृतिः ॥
1.12 – अभ्यासवैराग्याभ्यां तन्निरोधः ॥
1.13 – तत्र स्थितौ यत्नोऽभ्यास: ॥
1.14 – स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥
1.15 – दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥
1.16 – तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥
1.17 – वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः ॥
1.18 – विरामप्रत्ययाभ्यासपूर्व: संस्कारशेषोSन्यः ॥
1.19 – भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥
1.20 – श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥
1.21 – तीव्रसंवेगानाम् आसन्न: ॥
1.22 – मृदुमध्याधिमात्रत्वात् ततोSपि विशेषः ॥
1.23 – ईश्वरप्रणिधानाद्वा ॥
1.24 – क्लेशकर्मविपाकाशयैरपरामृष्ट: पुरुषविशेष ईश्वरः ॥
1.25 – तत्र निरतिशयं सर्वज्ञबीजम्॥
1.26 – पूर्वेषाम् अपि गुरुः कालेनानवच्छेदात्॥
1.27 – तस्य वाचकः प्रणवः॥
1.28 – तज्जपस्तदर्थभावनम्॥
1.29 – ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च॥
1.30 – व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः॥
1.31 – दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः॥
1.32 – तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः॥
1.33 – मैत्रीकरुणामुदितोपेक्षणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम्॥
1.34 – प्रच्छर्दनविधारणाभ्यां वा प्राणस्य॥
1.35 – विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी॥
1.36 – विशोका वा ज्योतिष्मती ॥
1.37 – वीतरागविषयं वा चित्तम्॥
1.38 – स्वप्ननिद्राज्ञानालम्बनं वा॥
1.39 – यथाभिमतध्यानाद्वा ॥
1.40 – परमाणु परममहत्त्वान्तोऽस्य वशीकारः॥
1.41 – क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनतासमापत्तिः॥
1.42 – तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः॥
1.43 – स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का॥
1.44 – एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता॥
1.45 – सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम्॥
1.46 – ता एव सबीजः समाधिः॥
1.47 – निर्विचारवैशारद्येऽध्यात्मप्रसादः॥
1.48 – ऋतम्भरा तत्र प्रज्ञा॥
1.49 – श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात्॥
1.50 – तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी॥
1.51 – तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः॥


Share with your friends

Leave a Comment

Your email address will not be published. Required fields are marked *