ईशावास्योपनिषद (मंत्र सहित) - Yogaducation

ईशावास्योपनिषद (मंत्र सहित)

Share with your friends

ईशावास्योपनिषद, यह उपनिषद उपनिषदों की श्रंखला में सबसे प्रथम उपनिषद है यह उपनिषद, शुक्ल यजुर्वेद के 40 वें अध्याय से लिया गया है इस उपनिषद में कुल 18 मंत्र हैं और यह सभी मंत्र श्रीमद् भागवत गीता के 18 अध्यायों की तरह ही महत्वपूर्ण है

 

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।।

ॐ शान्तिः शान्तिः शान्तिः॥

 

ॐ ईशा वास्यमिदम् सर्वं यत्किञ्च जगत्यां जगत्।

तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ।। 1 ।।

 

कुर्वन्नेवेह कर्माणि जिजीविषेच्छतम् समाः।

एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥2॥

 

असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः।

ताम्स्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥3॥

 

अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत्।

तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥4॥

 

तदेजति तन्नेजति तद्दूरे तद्वन्तिके।

तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ।।5।।

 

यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति।

सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥6॥

 

यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः।

तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥7॥

 

स पर्यगाच्छुक्रमकायमव्रणमस्नाविरम् शुद्धमपापविद्धम्।

कविर्मनीषी परिभूः स्वयम्भूयथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥8॥

 

अन्धं तमः प्रविशन्ति येऽविद्यामुपासते।

ततो भूय इव ते तमो य उ विद्यायाम् रताः ॥9॥

 

अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया।

इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥10॥

 

विद्यां चाविद्यां च यस्तद्वेदोभयम् सह।

अविद्यया मृत्यु ती विद्ययाऽमृतमश्नुते ॥11॥

 

अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते।

ततो भूय इव ते तमो य उ सम्भूत्याम् रताः॥12॥

 

अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात्।

इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥13॥

 

सम्भूतिं च विनाशं च यस्तद्वेदोभयम् सह।

विनाशेन मृत्युं तीर्खा सम्भूत्याऽमृतमश्नुते ।।14।।

 

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्।

तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥15॥

 

पूषन्नेकर्षे यम सूर्य प्राजापत्य

व्यूह रश्मीन् समूह तेजः।

यत्ते रूपं कल्याणतमं तत्ते पश्यामि

योऽसावसी पुरुषः सोऽहमस्मि ॥16॥

 

वायुरनिलममृतमथेदं भस्मांतम् शरीरम्।

ॐ क्रतो स्मर कृतम् स्मर क्रतो स्मर कृतम् स्मर ॥17॥

 

अग्ने नय सुपथा राये अस्मान्

विश्वानि देव वयुनानि विद्वान्।

युयोध्यस्मज्जुहुराणमेनो

भविष्ठांते नमोक्तिं विधेम ॥18॥


Share with your friends

Leave a Comment

Your email address will not be published. Required fields are marked *